Yagna Tathwa Prakaashika – Agraayaneshti Nirupanam

Categories:

Please Click here to listen this article in Tamil:

Mahamahopadhyaya Sri Chinnaswamy Shastry has very clearly shared the details for performing Agraayana ishti. This is usually performed with the newly harvested grains. Vreehyaagraayanam is the Aagraayana ishti performed by newly harvested rice in Sharad Ruthu. Shyaamakaagraayanam is the Agraayana Ishti, performed by saamai rice in Varsha Ruthu. Yavaagraayanam is that Agraayana Ishti performed by barley or yavam in vasantha ruthu.

Vreehyaagrayanam in Sharad ruthu

For performing Vreehyaagrayanam in SharadRuthu eight kapaalam by old rice, and twelve kapaalamus by new rice , charu by new rice, one kapaalam for DhyaavaaPruthvi by new rice – totally four different kinds of havissu must be prepared. Agni, Indraagni, VishweDeva, DhyaavaaPruthvi – are the devathas for this Vreehyaagraayana .

Shyaamakaagrayanam in Varsha Ruthu

In varsha ruthu newly harvested chyaamakam or saamai rice must be used. Soman is the devatha for this ishti. Charu made out of new samai rice are used as dravyam.

Yavaagraayanam in Vasantha ruthu

Similarly in Vasantha ruthu yavaagrayanam is to be performed with newly harvested yavam or barley. Three havis made with new barley would be the dravya. For this ishti for indraagni, vaishwadeva and dawyaavaapruthvis are the devathas respectively.

आग्रयणेष्टिः

Please click here to listen to this Sanskit article:

अथायणेष्टिरुच्यते–सा च कालद्वये शरतौ वसन्ततौ चानुष्ठेया। तावेव नवान्नोत्पत्तिकालाविति कृत्वा कालद्वयेऽपि नवान्नोत्पत्तावेवेयमनुष्ठेया । अत एव “नवान्नेष्टिः” इत्यस्याः संज्ञा । एवं च शरदि व्रीहिकाले व्रीहिभिर्नवै: वसन्ते यवैर्णवैस्च अनुष्ठेया । नवैः श्यामाकैरपि यष्टव्यत्वेनेयं विहिता । ते च वर्षासूत्पद्यन्ते । अतश्च वर्षास श्यामकैर्नवै: शरदि च नवैर्व्रीहिभि:, वसन्ते नवैर्यवैश्च कर्तव्या । व्रीह्याग्रयण श्यामाकाग्रयनयो: समान तनत्रेण अनुष्टानं सुत्रकरौरुक्तं | । तथानुष्ठाने व्रीह्युत्पत्यनन्तरम् शरद्यैव सा अनुष्ठेयेति बोध्यम् । तत्राप्यमायां पूर्णिमायां वा । पुण्यनक्षत्रादयोऽपि सूत्रान्तरेषूक्ताः । तत्र शरध्यनुष्टेये व्रीह्याग्रयणे चत्वारि हवींषि-पुरोडाशोऽष्टाकपालः पुरणौवृहिभि: कृतः, पुरोडाशो द्वादशकपालो नवव्रीहीणाम् , चरुनवत्रीहीणामेव, द्यावापृथिव्य एककपालो नववीहीणामेव । अत्र-अग्निः, इन्द्राग्नी, विश्वे देवाः, द्यावापृथिव्यौ इति क्रमेण देवताः । श्यामाकाग्रयणस्य सहानुष्ठानपक्षे श्यामाकाः नवाः द्रव्यं। तैश्चरुर्निश्पाध्य: । सोमो देवता । पृथगनुष्ठानपक्षे वर्षर्तौ केवलेन नवश्यामाकनिष्पादितचरुणा यजेत । सोम एव देवता । एवं वसन्ते यवाग्रयणं कर्तव्यम् । तत्र पुराणानां यवानामुपयोगो नास्ति । ऐन्द्रामवैश्वदेवद्यावापृथिवीयरूपाणि त्रीण्येव नवयवनिष्पादितानि हवींषि । इयन्तो विशेषाः । अन्यत्सर्व प्रकृतिवत् । साक्षात्प्रतिनिधिरूपेण वा आग्रयणं कृत्वैव नवान्नमश्नीयादाहिताग्निः ॥


॥ इत्याग्रयणेष्टिः ॥
इति महामहोपाध्याय-शास्त्ररत्नाकर-पण्डितसार्वभौम-श्रीचिन्नस्वामिशास्त्री
विरचिते यज्ञतत्त्वप्रकाशे हवियज्ञनिरूपणाख्यः
. प्रथमो भागः ॥