Yagna tatwa Prakashika – AgnyAadhAna Nirupanam

Categories:

Page – I
॥ श्रीः॥ ॥ श्रीगणेशाय नमः ।।
॥ यज्ञतत्त्वप्रकाशः ॥
महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः
॥ प्रथमो भागः ॥
चञ्चचन्द्रकलानिरन्तरवहत्पीयूषधारोक्षितो
गङ्गोत्तुङ्गतरङ्गभङ्गनिवहक्लियत्कपर्दोज्ज्वलः ।
कल्याणैकनिधिर्जगत्यसुमतां तापत्रयोन्मूलनं
कुर्वन्छ्रेय इहादधातु जगतां क्षेमकरश्शङ्करः ॥
जगस्थित्युद्भवलया यत्प्रसादादनेकधा ।
तं नौमि परमात्मनं यज्ञेशं यज्ञरूपिणम् ॥
यज्ञानां प्रक्रिया ह्येषा हसिमानमुपागता ।
उद्धर्तुमेनां यत्नोऽयं प्रीणन्तु सुधियोऽमुना ॥

यज्ञ तत्वप्रकाशिके अग्न्याधान निरूपणं

एवं तावत् सर्वेषां श्रौतकर्मणाम् उत्पत्तिविकासादिनिरूपणद्वारा सामान्यस्वरूपं निरूपितं किञ्चित् सामान्यकाण्डे । इदमिदानीं विशेषतस्तेषामेव विविच्य अवगमनाय प्रयत्यते । तत्र तावद्वेदोदितानि सर्वाण्यपि श्रौतकर्माणि कृतदारेण आहिताग्निना अनुष्ठेयानीति शास्त्रसिद्धान्तः । आहिताग्निस्तु विधिवत् श्रुतिविहितमाधानं योऽनुतिष्ठति स एव भवति । अतस्तदेव पूर्वं निरूप्यते ॥

आधानं त्रिविधम्- होमपूर्वाधानम् , इष्टिपूर्वाधानम् , सोमपूर्वाधानं चेति । तत्र, अग्निहोत्रारम्भं करिष्यन् ततः पूर्वं यदाधानं करोति तद्धोमपूर्वाधानम् । दर्शपूर्णमासेष्टयारम्भात् पूर्वं क्रियमाणमिष्टिपूर्वाधानम् । सोमयागारम्भात् पूर्वमनुष्ठीयमानं सोमपूर्वाधानम् । तदित्थम् –

यियक्षमाणः पुरुषो वसन्तर्तौ (कस्मिंश्चित् यथोदितनक्षत्रादियुते) काले यथावदग्नीनाधाय साङ्गस्य आधानस्य परिसमाप्तिदिन एव सायमग्निहोत्रमारभेत । तद्दिनप्रभृति प्रतिदिनं सायं प्रातश्च अग्निहोत्रं जुह्वदासीत । तदिदं होमपूर्वाधानम् ॥

Page – II

आधानानुष्ठानानन्तरं श्रौतं किमपि कर्म अकृत्वा शुक्रस्तादिदोशादूषिते पर्वणि (पौर्णमास्यां) पूर्णमासेष्टिं, तदनन्तरदर्शे दर्शेष्टिं चानुतिष्ठति यदि तदा तत् इष्टिपूर्वाधानमित्युच्यते । अस्मिन् पक्षे कालं सामग्रीसम्पदं च अवाप्य सोमादीननुतिष्ठेद्यागान् । अथ वा वसन्ते कस्मिंश्चिध्धिने शुभे आधानं कृत्वा तत्समनन्तरदिन एव सोमयागाय यदि सङ्कल्पयेत् तत् सोमपूर्वाधानम् । पक्षेऽस्मिन् सोमयागं परिसमाप्य तस्मिन्नेव दिने सायमग्निहोत्रमारभेत ।
अनन्तरपूर्णिमायां पूर्णमासेष्टिमित्यादि । त्रयाणाममीपां पक्षाणां स्वेच्छया विकल्पः परिग्रहणे । सङ्कल्पे परमेषां वैलक्षण्यम् , न त्वनुष्ठाने ॥

तत्र यदहरग्नीनाधास्यमान: स्यात् तत्पूर्वदिने कृतपापानुगुणप्रायश्चित्तो निष्कल्मषीभूय, आभ्युदयिकश्राद्धादिकमनुष्ठाय सपत्नीको यजमानो गृहीतनियमो वर्तेत । श्वोभूते कृतनित्यक्रियो भार्यया सह आधानार्थं सङ्कल्पं कुर्यात् । आधानस्य फलमग्नीनां गार्हपत्य-आहवनीयदक्षिणाग्नीनां त्रयाणां, सभ्य-आवसथ्यसहितानां पञ्चानां वा सिद्धिरेव । अतः आधानं न कस्यचित् कर्मणोऽङ्गभूतम् , किं तु स्वतन्त्रमेव कर्म ।।

  • क. आधानस्य ब्राह्मणकर्तृकस्य वसन्तर्तुरेव कालो विहितः श्रुतौ” वसन्ते ब्राह्मणोऽग्नीनादधीत ” इति ।।
  • ख. होमः अमिहोत्र होमः । ततः पूर्वमेव क्रियमाणमाधानं होमपूर्वाधानम् । अतश्च आधानानन्तरमेव अमिहोत्रारम्भे होमपूर्वाधानम् । आधानानन्तरमेव दर्शपूर्णमासेष्टथारम्भे इष्टिपूर्वाधानम् । आधानानन्तरमेव सोमयागसङ्कल्पे सोमपूर्वाधानमिति सिद्धम् ॥ .
  • ग. मङ्गलकार्येषु क्रियमाणं श्राद्धम् आभ्युदायिकमित्युच्यते । अभ्युदयसम्बन्धि आभ्युदयिकमिति ॥

Page – III

तत्र आदो आधानार्थं यजमानेन सङ्कल्पं कृत्वा ऋत्विग्वरणे कृते, अध्वर्युः शमीवृक्षस्योपरि यः प्ररूढोऽश्वत्थवृक्षः तस्मादेकां छित्त्वा शाखां, तां द्विधा कृत्वा, अरणिद्वयं ताभ्यामेव सम्पाद्य, अरणी ते युगपदेव आधान देशं प्रत्याहरेत् । पूर्वसम्पादिते वा ते तत्र आहरेत् । ते च चतुरङ्गुलोन्नते द्वादशाङ्गुलविस्तीर्णे षोडशाङ्गुलायते अनातपशुष्के भवतो बौधायनमतात् । चतुर्विंशत्यन्गुले इति कात्यायनपक्षः । तयोरेका अधरारणिः; अपरोत्तरारणिरित्युच्यते ॥

ततः सप्त पार्थिवाः सम्भारा आहवनीयादिषु कुण्डेषु क्षेपणाय आनीय स्थापनीयाः । ते यथा-

  • १.सिकताः
  • २. ऊषाः
  • ३. आखुकरीषम्
  • ४. वल्मीकवपा
  • ५. सूदः
  • ६. वराहविहतम्
  • ७. शर्कराः
  • ८. हिरण्यम् ।

एवं वार्क्षा: (वृक्षसम्बन्धिनः) अपि सम्भाराः सप्त । ते च यथा—

  • १. अश्वत्थकाष्ठम्
  • २. उदुम्बरकाष्ठम्
  • ३. पलाशकाष्ठम्
  • ४. शमीकाष्ठम्
  • ५. विकङ्कतकाष्ठम्
  • ६. अशनिहतवृक्षशकलम्
  • ७. पद्मपत्रम् ।

एवमेतान् पार्थिवान् वानस्पत्यांश्च सम्भारान् तस्मात् तस्मात् स्थानात् वृक्षाच आहृत्य, एकस्मिन् पात्रे प्रज्ञातान् तान्निध्यात् ॥

तत आहवनीयाद्यग्नीनां गृहनिर्माणम् । तत्र गार्हपत्यस्य वेदेः पश्चिमतः पृथक् गृहम् । आहवनीयाग्नेः पृथक् । तयोरन्यतरस्मिन् दक्षिणाग्नेः स्थानम् । आहवनीयाग्नेः पुरतः सम्यानेः । तस्य पुरतः आवसथ्यस्य ॥


क. ऊपर भूमिगता मृत् ऊपा । मृषिकोत्कीर्णा मृत् आग्बुकरीपम् । वल्मीकस्योपरिभागे स्थिता मृत् वल्मीकवपा । अशोष्यस्य जलशयस्य मृत् सूदः । वराहेण स्वमुखोत्कीर्णा मृत् वराहविहतम् । क्षुद्रपाषाणा: शर्करा: ‘शुक्कान्कल्’ इति द्राविडभाषायाम् । एवं एते वस्तुविशेषाः सम्भारा इत्युच्यन्ते ॥
ख. इदानींतनास्तु याशिकाः स्थानाभावाद्यसौकर्येण एकस्मिन्नेव अपवरके त्रयाणां पञ्चानां वा अनीना कुण्डान् निर्माय तत्र तान् स्थापयन्ति ॥

See. आप. श्री. ५. १. २. See, बौ. श्री. २. ६.

Page – IV

ततो यजमानो नापितेन क्षुरकर्म कारयित्वा नखकर्तनादि च, स्नात्वा क्षोमे वस्त्रे (दुकूलद्वयं) परिदध्यात् । एवं यजमानपत्न्यापि क्षौरं विना नखनिकृन्तनादिकं परं कारयित्वा स्नात्वा क्षौममेव वस्त्रं परिदधीत । ततोऽध्वर्युर्रपराह्णे यजमानस्यौपासनाग्नेरर्धं पृथक्कृत्य, तं गार्हपत्याग्नेः पश्चान्निधाय, प्रज्वाल्य ब्रह्मौदनपाकार्थं तण्डुलान्निरुप्य व्रैहेयान् , तानप्रक्षाल्यैव चतुश्शराव परिमितान् जलपूर्णे महति पाने प्रक्षिप्य पचेत् । यथा भक्तेषु तण्डुलांशोऽल्पोऽवशिष्येत तथा पक्तव्यम् । ततः पक्वतनमन्नमुध्वास्य ततो दर्व्या गृहीत्वा तस्मिन्नेवाग्नौ जुहुयात् । ततोऽवशिष्टमोदनं चतुर्धा विभज्य पिण्डं कृत्वा चतुर्भ्य: ऋत्विग्भ्योऽध्वर्याधिभ्यो (अध्वर्यु-होतृ-ब्रह्म-अग्नीध्रेभ्यः) दद्यात् । पात्रे च किञ्चिदवशेषयेत् ।।

ततोऽध्वर्युः स्वीयं भागं सव्यहस्ते दक्षिणहस्तेन पात्रस्थेऽन्ने आज्यं प्रस्राव्य, तदन्नं तिसृभि: फलवतीभिः अश्वत्थसमिद्भिरालोड्य, आलोडनसमये लग्नेनाऽन्नेन साकमेव ताः समिधः तस्मिन्नेवाऽग्नौ निदद्यात् । तत ऋत्विजो ब्राह्मणाः स्वस्वान्नं भुञ्जीरन् । इदं च समिदाधानं यस्मिन्नहनि अग्रे आधानं चिकीर्षति तत एकस्मात् वत्सरात् पूर्व, द्वादशाहात् द्व्यहात त्र्यहात् पूर्वं वा, पूर्वस्मिन्नेव वा दिने कर्तव्यम् । ततो यजमानस्तस्यां रात्रौ व्रतग्रहणं (नियमस्वीकारं) कृत्वा वीणावेणुवादनादिभिः जागरणं कुर्यात् । तमग्निमिन्धनादिप्रक्षेपेण सर्वां रात्रिं प्रज्वाल्य रक्षेत् । ततः प्रातरुपःकाल एव तस्मिन्नग्नावरणी पूर्वसम्भृते प्रतप्य, तमग्निं शमयित्वा, यजमानहस्तेऽरणी प्रयच्छेत् । यजमानस्ते प्रतिगृह्य, अभिमन्त्र्य यावन्मथनारम्भं स्वहस्त एव धारयन्नासीत । ततः अध्वर्युर्गार्हपत्यायतनस्योद्धन नावोक्ष्णादि कृत्वा, पूर्वस्थापिताः सिकता गृहीत्वा ताः समशो द्वेधा विभज्य, एकमर्धम् पुनर्द्वेधा विमज्य, एकं भागं गार्हपत्यायतने, एकं च. दक्षिणाग्न्यातने प्रक्षिपेत् । अवशिष्टमर्धं त्रेधा विभज्य, आहवनीय-सभ्य-आवसथ्यायतनेषु प्रक्षिपेत् । केचित् सभ्य आवसथ्यौ न आदधते । अस्मिन् पक्षे तस्यास्य आहवनीय एव निवपनं कार्यम् ॥

______________________________________________________________________________________________________________

क. ब्राह्मणानामृत्विजां भोजनाय यः पन ओदनः स ब्रह्मौदनः ।। क
ख. प्रभूतमानीतेभ्यस्तण्डुलेभ्यः प्रकृतापेक्षितांस्तण्डुलान् पृथक् गृहीत्वा तेषां पात्रान्तरे स्थापनम् ॥
ग. शरावः ‘तस्तरी’ इति हिन्दीभाषायाम् ॥ घ. अमेबहिनिस्सार्य स्थापनमुद्वासनम् ।
See आप. श्री. ५. ५. ८-११. See आप. श्री. ५. ८. २-५. , ५, ९.४.५.

Page V

गार्हपत्याधानम्

अनेनैव प्रकारेणेतरानपि पार्थिवान् सम्भारान् विभज्य, तेषु तेष्वायतनेषु निदध्यात् । एवं सप्त पार्थिवान् सम्भारान् आयतनेषु न्युप्य, तदुपरि तेनैव प्रकारेण सप्त वानस्पत्यानपि सम्भारान् न्युप्य, तदुपरि हिरण्यं निवपेत् । ततः पूर्वं शमितस्याग्नेः भस्म अपोह्य, तदुपरि अरणी निक्षिप्य, तत्समीपे श्वेतमश्वमेकं बद्ध्वा, अरणी मन्थेत् । ततोऽग्नावुत्पन्ने सति यजमानो वरमध्वर्यवे दद्यात् । ततोऽध्वर्युर्मथनजातमग्निं करीपकाष्ठशकलप्रक्षेपादिना वर्धयित्वा वेदेः पश्चिमभागावस्थिते गार्हपत्यार्थे कुण्डे पूर्वनिर्मिते स्थापयेत् । इदमेव गार्हपत्याधानम् । ततो ब्रह्मा सामगानं कुर्यात् , न वा ।।

दक्षिणाग्न्याधानम्

ततः सूर्यस्य अर्धोदय समये गार्हपत्यं प्रज्वाल्य, तत्र अश्वत्थकाष्ठान्याधाय, प्रदीप्तानि तान्यंशतो गृहीत्वा, सिकताभिरुपसङ्ग्रह्य, उपर्युद्धृत्य हस्तेन धारयन्नध्वर्युस्तिष्ठेत् । तदा अग्निध्रो लौकिकमग्निं यतः कुतश्चिदानीय, गार्हपत्याद्वा गृहीत्वा मथित्वा वा दक्षिणाग्न्यायतने सम्भाराणां पूर्वनिहितानामुपरि निदध्यात् । इदमेव दक्षिणाग्न्याधानम् । अत्राहवनीयस्योपर्युद्धरणकाले ब्रह्मा वामदेव्यं साम गायेत् , न वा ॥

—————————————————————————————————————–

क. यत्र यत्र सामान्यतो वरो देयत्वेन विहितस्तत्र सर्वत्र गोरेव अभिप्रेता । गामेका दयादिति यावत् । गवाभावे तन्मूल्यं निकपरिमाणं सुवर्ण वा देयम् ।।
ख. गार्हपत्यागेरायतनं वृनाकारम् । आहवनीयाय चतुरश्रम् । दक्षिणाग्नेरर्धचन्द्राकृति । गार्हपत्यायतनमध्यात् प्राच्या दिशि पण वत्यङ्गुलमिताया भूमावाहवनीयमध्यं स्यात् । केचित् गार्हपत्याहवनीययोरन्तरालगताया एव वेदेस्तावन्मानमिच्छन्ति । गार्हपत्यायतनस्य आनेय्या दिशि तत्संलमप्रायमेव दक्षिणानेरायतनं भवति ॥
ग. आहवनीयाधानार्थ प्रज्वालितान गार्हपत्यानेः कञ्चित् भागमादाय पात्रे कस्मिंश्चिन्निधाय साग्नि तत् पात्रं स्वहस्ते गृहीत्वा तत्रैव तिष्ठत्यध्वर्यो आग्नीधी दक्षिणाभिमादध्यात् इत्यापस्तम्बः ।। Sce. आप. श्री. ५. १३. ८.

१. See. आप. श्री. ५. १७, १८, बौधा. औ. २. १६. कात्या. ४. ८, ९.
—————————————————————————————————————-
Page VI

आहवनीयाधानम्

ततोऽध्वर्युप्रभृतयः ऋत्विजः कञ्चन अश्वं पूर्वं चालयन्तः, आहवनीयदेशं प्रति प्राञ्चो गच्छेयुः । तेषां दक्षिणभागे ब्रह्मा रथचक्र त्रिवारं परिवर्तयेत् । अश्व आहवनीयायतनस्य प्राग्भागे तिष्ठेत् । तेन प्रत्यङ्मुखेन आहवनीयसम्भारान् आक्रमयेत् । ततो ब्रह्मणि साम गायति सति आहवनीयायतनस्य पुरस्तात् प्रत्यङ्मुखस्तिष्ठन्नेव अध्वर्युराहवनीयमादध्यात् । एवं विष्वग्निष्वाहितेषु आज्यहोमेन काष्टैवास्मिन् विध्येयु: ।।

सभ्यावसथ्ययोरग्न्योराधानम्

ततो लौकिकाग्निना अरणिमथिताग्निना वा सभ्याग्निमावसथ्याग्निं च आदध्यात्तदाधानपक्षे । ततोऽश्वत्थवृक्षीयास्तिस्रस्तिस्रः समिधः शमीवृक्षीयाश्च तिस्रस्ता एकैकस्मिन्नग्नावादध्यात्। ततो मन्त्रवर्जमग्निहोत्रं जुहुयात् । ततः पूर्णाहुतिहोमः । स सचाज्यद्रव्येणैव । ततो यजमान आहितानग्निनुपतिष्ठेत । ततोऽध्वर्यवे यजमानो वरं दद्यात् । ततः प्रायश्चित्तहोमाः । ततो यजमानः सङ्कल्पकरणपूर्वकमाहिताग्निनियमान् धारयेत् । एतावदग्न्याधेयस्य प्रधानकर्म । अतः परमनुष्ठेयान्यानेयेष्टयादीनि अङ्गान्युच्यन्ते । तत्र प्रथममाग्नेयेष्टिराधानानन्तरमेव कर्तव्या । तत्र अग्निर्देवता । अष्टाकपालः पुरोडाशो द्रव्यम् । सा च पौर्णमासगतान्नेयेष्टिवत् कार्या ॥

——————————————————————————————————————–
_ आहवनीयमाधाय तत्समनन्तरमध्वर्युरेव दक्षिणाभिमाध्यादिति कात्यायनः ॥
क. आहवनीयायतनस्य पूर्वस्यां दिशि प्रत्यङ्मुखावस्थितोऽश्वः यथा तदाहवनीयस्थानमुल्लङ्घ्य तत्पश्चिमभागे आगच्छेत् तथा यतेत ।।
ख. अरणिमथितामिनैव सभ्य-आवसथ्यावादध्यादिति कात्यायनः । ISee. का. श्री. ४. ९. १८.) यत्र च्छात्रा अध्याप्यन्ते शास्त्रार्थविचारादिकं वा क्रियते सा सभा । तत्र सभ्यामेराधानम् ।।


Page VII

पवमानेष्टयः

तदनन्तरं पवमानेष्टयः । तास्तिस्रः । तत्र प्रथमाया अग्निः पवमानो देवता । द्वितीयस्या अग्निः पावकः । तृतीयस्या अग्निः शुचिः । सर्वत्र अष्टाकपालः पुरोडाशो द्रव्यम् । ता एता आधानदिन एवं समानतन्त्रेण अनुष्ठेयाः । अथ वा आधानदिनात् व्ध्यहे , त्र्यहे चतुरहे, अर्धमासे, मासे, मासद्वये संवत्सरे वा कर्तुं शक्यन्ते । परममीषां कालानां विकल्पः । यस्मिन् दिन एताः पवमानेष्टयः क्रियेरन् तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । आधानात् कालान्तरे पवमानेष्टीनामुत्कर्षे अग्निहोत्रस्याप्युत्कर्षः । (कालान्तरेऽनुष्ठानम् ) ।

आधानपवमानेष्टीनामङ्गाङ्गिभावः

पवमानेष्टीनामाधानाङ्गत्वमिति केचन मीमांसकाः । तन्मते साङ्गस्यैव कर्मणः फलजनकत्वात् पवमानेष्टीनामनुष्ठानानन्तरमेव अग्नीनां सिद्धेः तदनन्तरमेव अग्निहोत्रारम्भः । केचित्तु न आधानपवमानेष्टीनामङ्गाङ्गिभावः । परमाधानवत् पवमानेष्टीनामपि स्वत एवाहवनीयादिसम्पादकत्वम् । अत उभयेषां समुच्चय इति कथयन्ति । अस्मिन्नपि पक्षे पवमानेष्टीविना आहवनीयाद्यनिष्पत्तेः पवमानेष्टीरनुष्ठायैव तदनन्तरमग्निहोत्रारम्भः कर्तव्यः । अस्य सायमेव आरम्भः । सायं. प्रातरनुष्ठीयमानं प्रयोगद्वयं मिलित्वैकं कर्म भवति । सायंहोमस्य अग्निदेवताकत्वादेव अस्य कर्मणोऽग्निहोत्रमिति नाम सम्पन्नमिति मीमांसकाः ॥


क. अत्र प्रथमाया एवेष्टेरग्निः पवमानो देवता, नेतरयोः । तथापि तिसृणामपि पवमानेष्टित्वेन व्यवहारो याशिकसम्प्रदाये प्रसिद्धः ॥
ख. आधानप्रकरणे पाठात् फलाश्रवणाच आधानाङ्गं पवमानेष्टय इति मीमांसावार्तिककारः । ‘यदाहवनीये जुह्वति’ इति स्वतन्त्रविधिना पवमानेष्टीनामग्न्यङ्गत्वविधानात् आधानवत् तासामन्यग्निसम्पादकत्वमेवेति मीमांसाभाष्यकार: ।


Page VIII

इदानीम् आधानापेक्षितानां द्रव्याणां पात्राणां च नामानि विलिख्यन्ते

  1. आधानौपयिकानि द्रव्याणि पात्राणि च
  2. अरणिद्वयम् (अधरारणिः, उतरारणिश्च) अग्निमथनार्थम् ॥
  3. मन्थिप्रमन्थिनौ । तदर्थमेव ।

अष्टौ पार्थिवास्सम्भाराः-(मृत्संभन्धा:)

  • (१) सिकताः।
  • (२) ऊषरमृत |
  • (३) मूषिकोत्खाता मृत् ।
  • (४) अशोष्यजलाशयमृत् ।
  • (५) शर्कराः (क्षुद्रपापाणाः) ।
  • (६) वल्मीकमृत् ।
  • (७) शूकर(वराह) मुखोत्खाता मृत्।
  • (८) हिरण्यम् ।

अग्निनिधानात् पूर्वमेते कुण्डेषु क्षेपणीयाः ॥

सप्त वृक्षसम्बन्धिनः सम्भाराः—-

  • (१) अश्वत्थकाष्ठशकलानि ।
  • (२) औदुम्बरकाष्ठशकलानि ।
  • (३) शमीवृक्षकाष्ठशकलानि ।
  • (४) अशनिहतवृक्षकाष्ठशकलानि ।।
  • (५) पलाशवृक्षकाष्ठशकलानि ।
  • (६) विकङ्कतवृक्षशकलानि ।
  • (७) पद्मपत्राणि च ।

  • शीतजलमुष्णजलं च (पत्नीयजमानयोः स्नानार्थम् )
  • दुकूलवस्त्राणि (तयोरेव परिधानार्थम् )

ग्रामादिचिह्नभूतस्य अश्वत्थवृक्षस्य फलवत्यः तिस्रः समिधः (ब्रह्मौदनिकाग्नावधानार्थम् ) ॥

  • अश्वत्थवृक्षीयाः समिधो नव ।
  • शमीमय्यः समिधो द्वादश
  • वैकङ्कत्य: समिधस्तिस्रः |
  • (गार्हपत्यादिषु विष्वष्यग्निपु तदा तदा निक्षेपणार्थमेव विध्यनुरोधेन)
  • पैत्तलं ताम्रमयं वा पात्रम् (ब्रह्मौदनपाकार्थम् )
  • शरावाः (तत्तदग्निप्रणयनार्थम् )
  • दर्वी पैत्तली ताम्रमयी वा (ब्रह्मौदनोद्धरणार्थम् )
  • घृतं गव्यं माहिर्ष वा (होमाभिधारणाद्यर्थम् )

क. अरण्ये स्थितस्य वृक्षस्य यस्योपरि अशनिः पतति, तेन च यो हतः सोऽशनिहतो वृक्षः॥

१. See. आप. श्री. ५. १. २. बौधा. २. १२.

Page IX

  • वत्सतर्य: तिस्रः (अध्वर्यवे दानाय)
  • यज्ञियवृक्षकाष्ठानि (अग्निसमिन्धनार्थम् )
  • अश्वः (अग्न्यायतनेषु पदनिक्षेपणाद्यर्थम् )
  • अजः(आयतनसमीपे बन्धनार्थम् ) दक्षिणार्थं च ।
  • सिकताः (अग्निभिः सह ग्रहणार्थम् ) (उपयमनार्थम्स)
  • रथचक्रम् (आवर्तनार्थम्)
  • गौः(विदेवनार्थम् )
  • आधानार्थदक्षिणाद्रव्याणि-
  • (१) द्वादश गावः
  • (२) अजः
  • (३) पूर्णपात्रम्
  • (४) वासः
  • (५) मिथुनौ गावौ (स्त्रीपुंसरूपौ) नवीनो रथः
  • (७) वहनसमर्थोऽश्वः
  • (८) अनड्वान् ॥

चत्वार ऋत्विजः–अध्वर्युः, ब्रह्मा, होता, आग्नीध्रश्च ।।

एवं पवमानेष्टयादीनामप्यत्र अनुष्ठेयत्वात् ऐष्टिकपात्राणामप्यस्त्यावश्यकता । परं दर्शपूर्णमासप्रकरण एव तानि प्रदर्शनमर्हन्तीति तत्रैव प्रदश्यन्ते । अतस्तेषां स्वरूपं तत एव अवगन्तव्यम् ।।

॥ इत्यग्न्याधानं समाप्तम् ॥