स्वस्तिवाचनम् – गुरुवन्दनम्
श्री गुरुभ्यो नमः ॥ श्री महात्रिपुरसुन्दरी समेत श्री चन्द्रमौलीश्वराय नमः।
श्री काञ्ची कामकोटि पीठाधिपति जगद्गुरु
श्री शङ्कराचार्य श्री चरणयोः प्रणामाः। स्वस्ति श्रीमदखिल भूमण्डलालङ्कार त्रयस्त्रिंशत्कोटि देवता सेवित श्री कामाक्षीदेवीसनाथ श्रीमदेकाम्रनाथ श्री महादेवीसनाथ श्रीहस्तिगिरिनाथ साक्षात्कार परमाधिष्ठान सत्यव्रत नामाङ्कित काञ्ची दिव्यक्षेत्रे शारदामठसुस्थितानां अतुलित सुधारस माधुर्य कमलासन कामिनी धम्मिल्ल सम्फुल्ल मल्लिका मालिका निष्यन्दमकरन्दझरी सौवस्तिक वानिगुम्भ विजृम्भणानन्द तुन्दिलित मनीषिमण्डलानां अनवरत अद्वैत विद्याविनोदरसिकानां निरन्तरालङ्कृतीकृत शान्ति दान्तिभूम्नां सकल भुवनचक्रप्रतिष्ठापक श्रीचक्रप्रतिष्ठा विख्यात यशोऽलङ्कृतानां निखिल पाषण्ड षण्ड कण्टकोद्धाटनेन विशदीकृत वेदवेदान्तमार्ग षण्मतप्रतिष्ठापकाचार्याणां श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीजगद्गुरु श्रीमच्छङ्कर भगवत्पादाचार्याणां अधिष्ठाने सिंहासनाभिषिक्त श्रीमत् चन्द्रशेखरेन्द्रसरस्वती संयमीन्द्राणां अन्तेवासिवर्य श्रीमत् जयेन्द्र सरस्वती श्रीपादानां तदन्तेवासिवर्य श्रीमत् शङ्करविजयेन्द्र सरस्वती श्री पादानां च चरणनलिनयोः सप्रश्रयं साञ्जलिबन्धं च नमस्कुर्मः ।।