Please click here to listen to this Sanskrit text in audio format.
नित्यानामपि चातुर्मास्यानां पक्षद्वयमस्ति-उत्सर्गपक्षः, अनुत्सर्गपक्षश्चेति । सकृत्कृत्वोपरम उत्सर्गपक्षः । प्रथमप्रयोग परिसमाप्य पुनस्तान्यारभ्य पूर्ववदनुष्ठानं पञ्च संवत्सरं यावत् ततोऽप्यधिकं वेति सोऽयमनुत्सर्गपक्षः । सोमेन यक्ष्यमाण उत्सर्गपक्षमेव आश्रयेत् ॥
इमानि चातुर्मास्यानि त्रिप्रकाराणि भवन्ति-ऐष्टिकानि, पाशुकानि, सौमिकानि चेति । इदानी निरूपितान्यैष्टिकानि । पाशुकानि पशुद्रव्यकाणि । देवतास्तु ता एव । तेषामनुष्ठानं परं पशुयागविधानेन । एवं सौमिकेषु सोमरस एव द्रव्यम् । देवतास्तु ता एव । सोमयागविधिना च दीक्षोपसत्प्रवर्गाधनुष्ठानपूर्वकमनुष्ठेयानि ॥
तत्र ऐष्टिकेषु संवत्सरानुष्ठानपक्षेण सह पञ्चाहानुष्ठानपक्ष एकदिनानुष्ठानपक्षश्च बौधायनादिभिरुक्तः। स यथा-प्रथमदिने वैश्वदेवपर्व । द्वितीयदिने वरुणप्रघासपर्व । तृतीयचतुर्थदिनयोः द्वयोः साकमेधपर्व । पञ्चमदिने शुनासीरीयमिति । अयं पञ्चाहःपक्षः । चत्वार्यप्येतानि पर्वाप्येकस्मिन्नेव दिने यदा अनुष्ठीयन्ते स एकाहपक्षः । तत्राति तान्येव हवींषि । ता एव च देवताः । परं तु सर्वेषां प्रधानानां पौर्णमासीकालानुष्ठेयत्वात् तत्तदङ्गानां सम्भवतां तन्त्रेण अनुष्ठानम् । असम्भवतां त्वावृत्तिः । अङ्गानां परस्परविरोधे वारुगाघासिकान्येव तान्यनुष्ठेयानि ॥
पाशुकचातुर्मास्येषु नैकैकस्य प्रधानहविषः स्थाने एकैकं पशुद्रव्यम् , किं वेकैकस्मिन् पर्वण्यकैकः । तत्र वैश्वदेवपर्वणि विश्वदेवदेवताक एकः पशुः वरुणप्रघासे वरुणदेवताक एकः । साकमेधे महेन्द्र देवताक एकः पशुः। शुनासीरीये शुनासीरदेवताक एकः । इतराणि हवींषि तेषु तेषु पर्वसु तानि तान्येव । तत्र पशुयागं पर्वणोऽन्ते आदौ वा पृथक् साङ्गमनुष्ठाय ततस्समानतन्त्रेणेष्टीनाम् अनुष्ठानमित्येकः पक्षः । पशुतन्त्रमध्य एवेष्टीनामप्येकतन्त्रेण अनुष्ठानमित्यपरः पक्षः । अस्मिन् पक्षे पश्चङ्गानामेवैकादशप्रयाजादीनामनुष्ठानम् , नैष्टिकाङ्गानां नवप्रयाजादीनाम् ।।
सौमिकचातुर्मास्येषु वैश्वदेवपर्वस्थाने अग्निष्टोमसंस्थाकस्सोमयागः। वरुणप्रघासपर्व दिनद्वयानुष्ठेयम् । तत्र प्रथमदिनेऽग्निष्टोमसंस्थाक उक्थ्यसंस्थाको वा सोमयागः । द्वितीयदिने उक्थ्यसंस्थाकः । साकमेधपर्व दिनत्रयानुठेयम् । तत्र प्रथममहरग्निष्टोमसंस्थाकम् । द्वितीयदिने उक्थ्यसंस्थस्सोमयागः । तृतीयदिनेऽतिरात्रसंस्थाकः । शुनासीरीये पर्वणि ज्योतिष्टोम इति विवेकः । सप्तसु दिनेषु सवनीयपशुयागा अप्यङ्गतया अनुष्ठेयाः । तेषु-विश्वे देवाः, वरुणः, मरुतः, अग्नि, इन्द्राग्नी, ऐकादशिनदेवताः, वायुरिति क्रमेण देवताः । एकैकस्य पर्वणस्समाप्ताववभृथेष्टिः प्रथक् पृथगिति ॥
॥ इति चातुर्मास्यानि ॥