यज्ञतत्त्वप्रकाशे साकमेधपर्व
अथ तृतीयं साकमेधपर्व । दिनद्वयानुष्ठेयमिदम् । चत्वारि कर्माण्यत्र-अनीकवत्यादय इष्टयः, महावीपि, पितृयज्ञः, त्र्यम्बकहवींषीति । तत्र कार्तिक्यां मार्गशीष्या वा चतुर्दश्यां शुक्लायां प्रातरग्निहोत्रं हुत्वा सङ्कल्प्य तदैव अनीकवतीष्टिः । अष्टाकपालः पुरोडाशो द्रव्यम् । अग्निरनीकवान् देवता । तत्र सूर्योदयात् पूर्व कारभ्य सूर्योदयकाल एव यथा हविर्निर्वापस्सम्भवेत् तथानुष्ठेयम् । ततो मध्यन्दिने सान्तपनीष्टिः । तत्र चरुर्द्रव्यम् । मरुतस्सान्तपना देवताः। तस्मिन्नेव दिने सायं गृहमेधीयेष्टिः । तत्र दुग्धपक्कश्चरुद्रव्यम् । स यजमानस्य यावत्यो गावः सन्ति सर्वास्ता दुग्ध्वा सर्वस्मिंस्तस्मिन् पयसि पक्को गृहजनपर्याप्तौदनरूपो भवेत् । मरुतो गृहमेधिनो देवताः । न अत्र आधारप्रयाजानूयाजसामिधेनीप्रभृतीनामङ्गानामनुष्ठानम् । केवलमाज्यभागौ हविस्संपादननान्तरीयकाण्यवघातादीनि कर्माणि स्विष्टकृयागं चानुतिष्ठेत् । हुतावशिष्टमोदनं यजमानस्य गृहिणः सर्वे समेत्य भक्षयेयुः । भोजनमिदं चतुर्दश्यां रात्रौ भवति । ततो द्वितीयदिन उपसः प्रादुर्भावसमये उत्थाय स्नात्वा यजमानगृहस्थमृषभं तन्नाम सङ्कीर्त्य आह्वयेत् । तच्छृत्वा तस्मिन् प्रतिशब्दायमाने सति पौर्णदाख्यं होममग्निहोत्रहोमात्पूर्वमनुष्ठाय क्रीडिनेष्टिं कुर्यात् । सा द्वितीयदिनसूर्योदयकालेऽनुष्ठेया । तत्र सप्तकपालः पुरोडाशो द्रव्यम् । मरुतः क्रीडिनो देवताः । मरुतः स्वतवत्यो वा । अन्यत्सर्वं यथावत् ॥
महाहवींषि (साकमेधान्तर्गतानि)
ततो महाहवींषि । तत्राष्टौ यागाः । आग्नेयादिपञ्चकं वैश्वदेववत् । तत ऐन्द्राग्नः, ऐन्द्रः, वैश्वकर्मणश्चेति तयः । देवता आग्नेयादिषु पञ्चसु वैश्वदेववत् । तत इन्द्राग्नी, इन्द्रः, विश्वकर्मा च । द्रव्याणि स्पष्टानि । अत्रापि वरुणप्रघासवत् वेदिमध्ये प्राग्देशे उत्तरवेदि कृत्वा गार्हपत्यादग्नि प्रणीय आहवनीयकरणम् , अग्नि मथित्वा आहवनीये प्रक्षेपश्च भवति । तत आपाराज्यभागप्रयाजानिष्टवा, अष्टानां प्रधानानामनुष्ठानं स्विष्टकृदिडाभक्षणानूयाजादिकरणं च वैश्वदेववदेव । वैश्वकर्मणस्यैककपालस्यानुष्ठानकाले मार्गशीर्षादिफाल्गुनान्तानि सहः, सहस्यः, तपः, तपस्य इत्येवंरूपाणि मासनामानि तमभिजुहुयात् ।
एतावता महाहविस्समाप्तिः ॥
महापितृयज्ञः
तदानीमेव महापितृयज्ञ आरब्धव्यः । अयं च पूर्वनिरूपितात् दर्शकालानुष्ठेयपिण्डपितृयज्ञात भिन्नः । अयं साकमेधपर्वान्तर्गतः । अस्य वेदिरन्यप्रकारैव । साप्युपरिष्टानिकृष्टा । तां निर्माय दक्षिणाग्नेरग्निं गृहीत्वा तं वेदिमध्ये स्थापयित्वा तत्रैव आहवनीयकर्तव्यानि सर्वकर्माणि कुर्यात् पितृयज्ञसंबन्धीनि । पितृयज्ञे च हविस्त्रयम्-पटकपालः पुरोडाशः, धानाः (भ्रष्टयवाः), मृतवत्साया गोः पयसा मिश्रितानि भर्जितयवचूर्णानि चेति । सोमः पितृमान् , पितरो बर्हिषदः, पितरोऽग्निष्वात्ता इति क्रमेण देवताः। एतेषां हविषां निष्पादनार्थ यवान्निरुप्य, अवहत्य, फलीकृत्य, धानार्थान् मन्थार्थीश्च यवान् पृथग्विभज्य अवशिष्टान् पिष्ट्वा दक्षिणाग्निसमीपे षण्ण कपालानामुपरि पुरोडाशं श्रपयेत् ॥
ततः पृथक्कृतान् यवान् भर्जयित्वा, अध धानार्थम् अवशिष्य अर्ध पिष्ट्वा मन्थं कुर्यात् । मृतवत्साया गोः पयसि यवचूर्णानि प्रक्षिप्य इक्षुकाण्डेन मथित्वा मन्थं सम्पादयेत् । ततो वेद्यां सर्वाणि हवींब्यासाद्य तद्दक्षिणतः कशिपूपबर्हणाञ्जनाभ्यअनोदकुम्भान् पिण्डपितृयज्ञवदासाद्य चतुर्थप्रयाजवर्ज चतुरः प्रयाजानिष्ट्वा प्राचीनावीतिनः परिश्रितां वेदि परिक्रम्य प्रधानहविर्यः सकृत्सकृदवदाय तत्तद्देवतायै आश्रावणादिकमनुष्ठाय हविः त्यजेयुः । अत्र “आ स्वधा” इत्याश्रावणम् । “अस्तु स्वधा” इति प्रत्याश्रावणम् । “सोमं पितृमन्तं यज” इति प्रेषः। “ये यजामहे” इति स्थाने “ये स्वधामहे” इति “वौ३ षट्” इति स्थाने “स्वधा नमः” इति च पठेत् । अत्र द्वे द्वे पुरोऽनुवाक्ये, एकैका च याज्या भवन्ति । अग्निः कव्यवाहनः स्विष्टकृद्देवता । प्रधानयागेऽपि द्रव्याणां सकृत्सकृदेव अवदानम् । शेषमक्षणं केवलमवघ्राणरूपमेव । ततो यजमानः वेदि त्रिः अप्रदक्षिणं परिषिच्य हविश्शेषेण पिण्डवयं कृत्वा, वेधाः पूर्वपश्चिमदक्षिणकोणेषु पितृपितामहप्रपितामहेभ्यः तान् पिण्डान् निधाय, उत्तरस्मिन् वेदिकोणे हस्तलिप्तं निमृज्य, पितृन् , गार्हपत्यं चोपस्थाय शय्योपबहणवस्त्राञ्जनादीनि पूर्वोपकल्पितानि पितृभ्यो यथावत् दत्त्वा प्राचीनावीतानि विस्रस्य यज्ञोपवीतानि कृत्वा पूर्ववैपरीत्येन वेदि परिकम्य परिश्रयणप्रपास्य प्रथमवर्जितावनूयाजौ द्वाविष्ट्वा निवीतं कृत्वा सूक्तवाकादि सर्व समापयेयुः सामिष्टयजु.पत्नीसंयाजवर्जम् ।
एतावता पितृयज्ञसमाप्तिः ॥
त्र्यम्बकहवींषि
अथव्यम्बकहवींषि । तत्र यजमानगृहावस्थितस्त्रीपुरुषसङ्ख्यापेक्षया एकाधिकसङ्ख्याकान् एककपालान् पुरोडाशान् तूष्णीमेव श्रपयित्वा तान् मूते कृत्वा दक्षिणा रेकमङ्गारमादाय मूतगतैः पुरोडाशैः उल्मुकेन (अङ्गारेण) सह ईशानदिशं गत्वा तत्रैकं पुरोडाशं मूषिकोत्खातपांसुषु प्रक्षिप्य ततः चतुष्पथं गत्वा तत्र तमगारं निधाय संवर्ध्य सर्वेभ्यः पुरोडाशेभ्यः सकृत्सकृदवदाय रुद्राय हुत्वा तमग्निं त्रिः परिक्रम्य हुतावशिष्टान् पुरोडाशानूर्वमाकाशे उत्क्षिप्य पततस्तान् गृहीत्वा यजमानहस्ते दत्तांस्तान् पुनर्मूते निक्षिप्य बद्ध्वा शुष्के कस्यचिवृक्षस्य स्थाणावाबध्नीयात् । क्वचिद्वल्मीकच्छिद्रे वा निधानम् । ततः परितो मूतमवस्राव्य प्रत्यावृत्त्यानवेक्षमाणा गृहमागच्छेयुः । आगत्य च अदितिदेवताकं यागं घृतश्रपितचरुणा कुर्यात् ॥
॥ समाप्तं साकमेधपर्घ ॥
यज्ञतत्त्वप्रकाशे शुनासीरीयपर्व
ततः शुनासीरीयं पर्व । साकमेधसमाप्यनन्तरं द्वयोः त्रिषु चतुर्षु वा दिनेषु मासे वाप्यतोते शुनासीरीयानुष्ठानं कर्तव्यम् । चतुषु वा मासेष्वतीतेषु फाल्गुन्यामेव कुर्यात् । तत्र आग्नेयादयः पञ्च वैश्वदेववद्यागाः । तत ऐन्द्रामः, वैश्वदेवः, शुनासीरीयः, वायव्यः, सौर्यश्चेत्यधिकाः पञ्च । तेषु इन्द्रानी, विश्वे देवाः, इन्द्रः शुनासीरः, वायुः, सूर्यश्च देवताः । द्रव्याणि पुरोडाश’, चरु, पयश्च । चर्वाद्यर्थं पूर्ववदेव निर्वापरोक्षणावघातपेषणश्रपणादयः । पयसः कृते वत्सापाकरणदोहनादिकं प्रातर्दोहवदेव । नव प्रयाजाः नव चानूयाजाः । अन्यत्सर्व पर्वान्तरवदेव । परं नात्र मासनामभिहोमः चैत्रान्तर्गतैः । किं तु संसख्येन अधिकमासनाना एककपालमभिजुहुयात् । इन्द्र एव शुनासीरपदवाच्य इत्यापस्तम्बादयः । कात्यायनस्तु, शुन इन्द्रः, सीरः वायुः, इति व्याख्याय शुनासीरीयं द्विदेवताकमिति कथयति । वरुणप्रघासपर्वण्येव अवभृथः ; न पर्वान्तरेषु । अग्निप्रणयनमुत्तरवेदिश्च मध्यमयोर्वरुणप्रघाससाकमेधयोरेव ; न आद्यन्तयोः। केचित् चतुर्वपि पर्वस्वग्निप्रणयनं कुर्वन्ति । अरणिमन्थनम् , मथितस्य च आहवनीये प्रक्षेपः पर्वचतुष्टयेऽप्यस्ति ।।