यज्ञतत्त्वप्रकाशे चातुर्मास्यानि
अथ चातुर्मास्यानि निरूप्यन्ते । तानि द्विविधानि-स्वतन्त्राणि राजसूयान्तर्गतानि च । राजसूयमनुतिष्ठता क्षत्रियणैव राज्ञा राजसूयप्रयोगमध्य एवानुष्ठेयानि राजसूयान्तर्गतानि । न ब्राह्मणवैश्ययोस्तत्राधिकारः । स्वतन्त्रेषु तेषु त्रैवर्णिकानामधिकारः । तानि चाग्निहोत्रदर्शपूर्णमासवन्नित्यानि प्रतिसंवत्सरमनुष्ठेयानि ॥
तत्र चत्वारि पर्वाणि-वैश्वदेवः, वरुणप्रघासाः, साकमेधाः, शुनशीरीयश्चेति । अत्र पर्वसु पौर्णमासीष्वनुष्ठेयत्वात् पर्वशब्देन ते यागा उच्यन्ते । इष्टिरूपेष्वत्र चत्वार एव ऋत्विजः । वरुणप्रघासेषु परं प्रतिप्रस्थाता एकोऽधिकः ॥
यज्ञतत्त्वप्रकाशे वैश्वदेवपर्व
तत्र फाल्गुन्यां चैत्र्यां वा पूर्णिमायां वैश्वदेवपर्वणोऽनुष्ठानम् । फाल्गुन्यामेवेति कात्यायनः । तदनुष्ठास्यन् ततः पूर्वस्यां चतुर्दश्यामन्वारम्भणीयेष्टिं तत्स्थानापन्नां वैश्वानरपार्जन्येष्टिं वा अनुतिष्ठेत् ॥
इष्टिरियं कर्तुः कौरम्भयोग्यतासंपादिका । द्वादशकपालः पुरोडाशः चरुश्च द्रव्यम् । वैश्वानरः पर्जन्यश्च देवते । तामिष्टिकल्पेन अनुष्ठाय श्वोभूते वैश्वदेवपर्वानुष्ठानम् । तत्राष्टौ यागाः-आग्नेयः, सौम्यः, सावित्रः, सारस्वतः, पौष्णः, मारुतः, वैश्वदेवः, द्यावापृथिव्य इति ।
तत्र अष्टाकपालः पुरोडाशः, चरुः, द्वादशकपालः पुरोडाशः, चरुः, पिष्टकचरु , सप्तकपालः पुरोडाशः, आमिक्षा, एककपालः पुराडाश इति क्रमेण द्रव्याणि । अग्निः, सोमः, सविता, सरस्वती, पूषा, मरुतः, विधे देवाः, द्यावापृथिव्यौ इति च क्रमेण देवताः ।।
तत्र आमिक्षोत्पादनार्थ पर्वणः पूर्वस्मिन् दिनेऽन्वारम्भेष्टयनन्तरं सानाय्यवत् प्रातर्वत्सापाकरणादिकं सायंदोहनादिकमनुष्ठाय लौकिकेन दध्ना तत्पय आतच्य निदध्यात् । चतुर्दश्यामेव, कुशसमिदाहरणादिकं कुर्यात् । ततः पूर्णिमायां प्रातरग्निहोत्रं हुत्वा दार्शिकेन प्रातर्दोहधर्मेण गा दुध्वा, दुग्धं पय आहवनीये श्रायित्वा अतितप्यमाने पयसि तस्मिन् पूर्वदिनसम्भृतं प्रभूतं दध्यासिञ्चेत् । तद्विधा संवर्तते-घनीभूतं द्रवीभूतं च । तत्र यद्धनीभूतं कठिनद्रव्यं सा आमिक्षा । यत् द्रवीभूतं तत् वाजिनम् । ततः पुरोडाशार्थं चर्वर्थं च ब्रीहीन् तत्तदेवतायै निरुप्य सहैव अवहत्य पुरोडाशीयांश्चर्वांश्च तण्डुलान् पृथक्कृत्य पुरोडाशीयान् पिष्टवा पिष्टैः दर्शपूर्णमासवत् पुरोडाशान्निष्पादयेत् । भिन्नभिन्नपात्रेषु चरूंश्च श्रपयेत । ततः प्रयाजार्थ जुह्वादिषु पानेष्वाज्यं गृहीत्वा अनूयाजार्थ पात्रान्तरे आज्यं दधि च सहैव गृह्णीयात् । तत्पृपदाज्यमित्युच्यते । अत्र नव प्रयाजाः। नव अनूयाजाः । एवम् , एककपाल पुरोडाशमपि तदर्थ सम्भृते आशयस्थाल्याख्ये पात्रे निक्षिप्य तत्पात्रं घृतेनापूरयेत् । यथा पुरोडाशस्य मस्तकः परं दृश्येत अन्योंऽशो घृतमन्नो भवेत्तथा पूरणीयम् । ततः प्रयाजाघाराज्यभागाद्यनन्तरम् आश्रावणादिषु कृतेषु आग्नेयादियागान् कुर्यात् । अत्र यागेभ्यः पूर्व तदर्थं पक्केषु वेद्यामासादितेषु पशुयाग इव अग्निं मथित्वा आहवनीये निक्षिपेत् । अनन्तरं प्रयाजाः । ततः प्रधानयागा इति बोध्यम् । प्रधानेषु देवताः पूर्वमुक्ताः । तत्र आग्नेयादीनां हविषामवदानक्रमेण होमः । एककपालस्य पुरोडाशस्य तु न अवदानादिकम् । किंतु यथा पात्रे स्थितस्तथैवापर्यावर्तयन् तदर्थनिर्मितशिक्येन सहैव तं गृहीत्वाग्नौ प्रक्षित् । पात्रस्थमाज्यं च अवश्च्योतयेत् । ततः चतुर्भिः मधुः, माधवः, शुकः, शुचिः इत्येवंरूपैः मासनामभिः एककपालपुरोडाशममित आज्येन जुहुयात् । ततः स्विष्टकृदिडामक्षणानूयाजादिषु परिधिप्रहरणान्तेषु प्रकृतिवदनुष्ठिनेषु कर्मसु वाजिनपात्रं गृहीत्वा ततो वाजिनमपरितः जुह्वां तथा स्रावयेत् यथा वाजिनं जुहूतो बहिबहिष उपरि विष्यन्देत् । ततस्तत् वाजिसंज्ञिकाभ्यो देवताभ्यो हुत्वा शेषमक्षणं ऋत्विजः सोमवत् उपाह्वानादिकं कृत्वा कुर्युः । अन्ये चेष्टिधर्मा यथावदत्र अनुष्ठयाः । इष्टयन्ते वपनं यजमानस्य ॥
॥ इति वैश्वदेवपर्यसमाप्तिः ॥